Students can Download 2nd PUC Sanskrit Model Question Paper 1 with Answers, Karnataka 2nd PUC Sanskrit Model Question Papers with Answers help you to revise complete Syllabus and score more marks in your examinations.
Karnataka 2nd PUC Sanskrit Model Question Paper 1 with Answers
अङ्काः 100
समय : 3 घण्टा 15 निमेषाः
I. एकवाक्येन संस्कृतभाषया उत्तरं लिखत। (10 × 1 = 10)
प्रश्न 1.
अद्यापि देवाः कुत्र जन्म इच्छन्ति?
उत्तरम्
अद्यापि देवाः भारते जन्म इच्छन्ति।
प्रश्न 2.
वृद्धपक्षिराजस्य नाम किम्?
उत्तरम्
वृद्धपक्षिराजस्य नाम चिरञ्जीवी ।
प्रश्न 3.
राजपुत्रः मञ्जूषायाः अन्तः कं निक्षिपति?
उत्तरम्
राजपुत्रः मञ्जूषायाः अन्तः घोरं वानरम् निक्षिपति।
प्रश्न 4.
स्वाधीनकुशलाः के?
उत्तरम्
स्वाधीनकुशलाः सिद्धिमन्तः।
प्रश्न 5.
राणाप्रतापस्य अश्वस्य नाम किम्?
उत्तरम्
राणाप्रतापस्य अश्वस्य नाम चेतकः।
प्रश्न 6.
पारिजातः कस्मात् उद्गतः?
उत्तरम्
पारिजातः समुद्रमथनात् उद्गतः।
प्रश्न 7.
शान्त्याः पत्युः नाम किम्?
उत्तरम्
शान्त्याः पत्युः नाम सुन्दरः।
प्रश्न 8.
कर्णः कस्मै गुरुदक्षिणां दातुम् इच्छति?
उत्तरम्
कर्णः गुरवे गुरुदक्षिणां दातुम् इच्छति।
प्रश्न 9.
कामधेनुगुणा का?
उत्तरम्
कामधेनुगुणा विद्या।
प्रश्न 10.
कृष्णशास्त्रीमहोदयेन आरब्धा पत्रिका का?
उत्तरम्
कृष्णशास्त्रीमहोदयेन आरब्धा पत्रिका प्रबुद्धकर्णाटकः।
II. द्वित्रः वाक्यैः कन्नडभाषया आङ्ग्लभाषावा वा उत्तरं लिखत। (2 × 5 = 10)
प्रश्न 11.
विक्रमादित्यः राक्षसं किम् उपदिशति?
प्रश्न 12.
कन्याविषये परिव्राट् वणिजः सकशे किं वदति?
प्रश्न 13.
भामाशाहः राणाप्रतापं प्रति किम् आह?
उत्तरम्
This sentence is taken from the lesson Ekuara:” which has the subject taken from history books. He told Ranapratap ‘King I am the servant of your dynasty and I have lots of money. From that, you can take care of 25000 soldiers up to 12 years. At that time Rana said ‘I don’t take that money and I will get money from elsewhere’. Then Bamashaha said ‘this money is not others, this money is earned for the sake of protecting the country and if it helps then my life would be
meaningful’.
प्रश्न 14.
प्रणामावसरे महाश्वेता कीदृशी आसीत्?
प्रश्न 15.
शान्तिः किमर्थं तरुणं दृष्टुम् आगच्छति?
प्रश्न 16.
परशुरामस्य कोपकारणं किम्?
उत्तरम्
This sentence is taken from the lesson ‘गुरुशपम्’ first act of ‘विधिविलसितम्’ written by Dr K.S. Nagarajan. Karna approaches Parashurama for learning the usage of weapons and missiles. After finishing his warfare he looks at his preceptor sleeping under a tree. He rushes to him, lifts his head and keeps it on his thigh. When the insect Vajrakeeta by name drills his thigh and blood oozes out, Parashurama is woken up and asks angrily ‘Why did you return to the Ashrama? How did my headrest on your lap? What is the cause of this bloodstream? Who are you that can bear this pain?
प्रश्न 17.
सत्पुरुषव्रतं किम्?
III. पाठनाम उल्लिख्य श्लोकानाम् अनुवादं कन्नड-आङ्ग्लभाषया वा कुरुत। (त्रयाणामेव) (3 × 3 = 9)
प्रश्न 18.
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः।
तथा नद्यः स्वप्रकाशाः शतशोऽथ सहस्रशः।।
प्रश्न 19.
तथेति प्रतिपद्यैतद् गत्वा सोऽथ वणिक्भयात्।
नक्तं चक्रे तथा सर्वं निर्विमर्शा हि भीरतः।।
प्रश्न 20.
कास्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्।
प्रश्न 21.
अस्त्रप्रयोगवेलायां यदा ते सूतभावना।
तदा सर्वाणि चाम्राणि भवेयुनिष्फलानि हि॥
प्रश्न 22:
मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्।
मन्त्रवत् रक्षयेत् गूढं कार्ये चापि नियोजयेत्।।
IV. पाठनाम उल्लिख्य कः कं प्रति अवदत् इति संस्कृतभाषया लिखत। (चतुर्णामेव) (4 × 2 = 8)
प्रश्न 23.
त्वं विश्वस्य आति परिहरसि।
प्रश्न 24.
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी।
प्रश्न 25.
मम जीवनं सार्थकं भवेत्।
प्रश्न 26.
धैर्यधना हि साधवः।
प्रश्न 27.
अहो ! गुरुकुलवैभवम्।
प्रश्न 28.
स यत्र कुत्रापि भवतु कालेज आनेतव्य एव।
V. दशवाक्यैः संस्कृतभाषया कन्नडभाषया आङ्ग्लभाषया वा उत्तरं लिखत। (पञ्चानामेव) (5 × 5 = 25)
प्रश्न 29.
भारतस्य भौगोलिकचित्रणं कुरुत।
प्रश्न 30.
विक्रमादित्यस्य प्रभावेण राक्षसः कथं परिवर्तितः अभवत्।
प्रश्न 31.
निर्विमर्शा हि भीरवः इति शीर्षिकां समर्थयत।
प्रश्न 32.
अङ्गुलीयकप्रसङ्गः।
प्रश्न 33.
रोटिका प्रसङ्गः।
प्रश्न 34.
पुण्डरीकस्य जन्मवृत्तान्तं लिखत।
प्रश्न 35.
शान्तिदर्शनात् तरुणस्य चिन्तासन्ततिः।
प्रश्न 36.
कृष्णशास्त्रिणां शिष्यवात्सल्यम्।
VI. मञ्जूषातः सूक्तं पदं चित्वा रिक्तस्थानं पूरयत। (4 × 1 = 4)
प्रश्न 37.
हस्तिनावत्याः राजा ………….।
उत्तरम्
दुष्यन्तः
प्रश्न 38.
वत्स …………. उन्मील्याद्य पश्य।
उत्तरम्
चक्षुषी
प्रश्न 39.
प्रवासे …………. सदृशी विद्या।
उत्तरम्
मातृ
प्रश्न 40.
सिंहवच्च ………….।
उत्तरम्
पराक्रमेत्
VII. संयोजयत। (4 × 1 = 4)
प्रश्न 41.
क – ख
विषयाः – योद्धारः
विलासमिव – वायुः
बिल्लाः – प्रेरयतीन्द्रियम्
गन्धवहः – सरस्वत्याः
उत्तरम्
प्रेरयतीन्द्रियम्
सरस्वत्याः
योद्धारः
वायुः
VIII. रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुरुत (त्रयाणामेव) (3 × 1 = 3)
प्रश्न 42.
परदुःखेन साधवोऽत्यन्तदुःखिनो भवन्ति।
उत्तरम्
के।
प्रश्न 43.
परिव्राट् मौनं त्यक्त्वा उक्तवान्।
उत्तरम्
कः।
प्रश्न 44.
ऋषयः प्रसन्नमुखवर्णाः दृश्यन्ते।
उत्तरम्
कीदृशाः।
प्रश्न 45. प्रतापस्य शत्रवः परिहसन्ति स्म।
उत्तरम्
कस्य।
प्रश्न 46.
विमर्शकेन कृतीनाम् अध्ययनं सम्यक् कर्तव्यम्।
उत्तरम्
केन।
IX. यथानिर्देशं कुरुत। (चतुर्णामेव) (4 × 3 = 12)
प्रश्न 47.
सन्धिं विभजत/योजयत। (त्रयाणामेव)
बाल्यादेव, तथेति, हि + अकाले, शक्तो + अस्ति, ग्रामस्य + एव।
उत्तरम्
बाल्यात् + एव, तथा + इति, शक्तोऽस्ति, ग्रामस्यैव।
प्रश्न 48.
विग्रहवाक्यं/समस्तपदं लिखत। (त्रयाणामेव)
वस्त्रापणः, कामक्रोधौ, ज्ञानदाहः, जीवानां मारणम्, हिमवतः दक्षिणम्।
उत्तरम्
वस्त्रस्य आपणः, कामः च क्रोधः च, ज्ञानस्य दाहः, जीवमारणं, हिमवद्दक्षिणम्।
प्रश्न 49.
लिङ्ग-विभक्ति-वचनानि लिखत। (द्वयोरेव)
पौरवैः, अम्बया, तस्याम्, महाशयस्य।
उत्तरम्
पु., तृ, बहु; स्त्री, तृ, एक; स्त्री, सप्तमी, एकः; पु., षष्ठी, एकः।
प्रश्न 50.
लकार-पुरुष-वचनानि लिखत। (द्वयोरेव)
भवेत्, अपनेष्यामि, निबोधत, धारयन्ति।
उत्तरम्
विधिलिङ्, प्रथम, एकः; लृट्, उत्तम, एक; लोट्, मध्यम, बहु; लट्, प्रथम, बहु।
प्रश्न 51.
वाक्यदोषं परिहरत
भवान् गन्तुमर्हसि।
उत्तरम्
भवान् गन्तुमर्हति।
अम्बा सह स्नातुम् अभ्यागमम्।
उत्तरम्
अम्बया सह स्नातुम् अभ्यागमम्।
प्रश्न 52.
प्रयोगं परिवर्तयत।
त्वया किमेतत् आचरितम्।
उत्तरम्
त्वं किमेतत् आचरितवान्।
अथवा
राणाप्रतापः प्रतिज्ञां स्वीकृतवान्।
उत्तरम्
राणाप्रतापेन प्रतिज्ञा स्वीकृता।
प्रश्न 53.
अलङ्कारं सलक्षणं निर्दिशत।
चिच्छेदपापस्य कपिः निग्रहज्ञ इव क्रुधा।
अथवा
विलासमिव सरस्वत्या:मुनिकुमारकमपश्यम्।
उत्तरम्
चिच्छेद पापस्य कपिः निग्रहज्ञः इव क्रुधा
अत्र उपमा अलङ्कारः
लक्षणम् – उपमा यत्र सादृश्य लक्ष्मीरुल्लसति द्वयोः
उपमानं – निग्रहज्ञः
उपमेयः – कपिः
उपमावाचक इव
छेदनं – साधारण धर्मः।
अथवा
विलासमिव सरस्वत्याः मुनिकुमारकमपश्यम्।
उत्प्रेक्षालङ्कारः।
लक्षणम् – सम्भावना स्यादुत्प्रेक्षा
मुनिकुमारके सरस्वतीविलासस्य संशयत्वात् उत्प्रेक्षालङ्कारः।
प्रश्न 54.
कन्नडभाषया-आङ्ग्लभाषया वा अनुवदत। (5 × 1 = 5)
पुरा केरले शिवगुरु-आर्याम्बा दम्पत्योः एकः पुत्रः अजायत। भगवतः शिवस्य अनुग्रहात् जातस्य तस्य शङ्कर इति नाम कृतम्। सः बाल्ये एव वेदाध्ययनं समाप्य, सन्यासं स्व्यकरोत्। मातुः आज्ञया नर्मदातीरं गत्वा गुरोः सकाशे शास्त्राणि अधीतवान्। अनन्तरं भारतस्य चतुर्दा दिक्षु मठं संस्थाप्य सनातनधर्मस्य गरिमानम् अवर्धयत। स एव श्री शङ्करभगवत्पादाः।
उत्तरम्
Long back in Kerala, couple Shivaguru and Aryamba had a son. He born by the grace of Lord Shiva. So he named as Shankara. He completed Vedic studies in his childhood and became nonk. As per the order of his mother he went to the bank of Narmada and studies all Shastras under his teacher. Later he established four mutts in all four directions in India. Through the mutt he enhanced the honour of Indian religion. He is only Shankarabhagavatpada.
प्रश्न 55.
संस्कृतभाषया अनुवदत। (5 × 1 = 5)
Once the sage Vishwamitra came to the court of the king Dasharatha. He requested to send the boys Rama and Lakshmana to protect his sacrifice. Dasharatha felt sad due to affection to wards his children. Vasishtha, the preceptor of the family, advised Dasharatha to fulfil Vishwamitra’s request. Dasharatha sent Rama and Lakshmana for the welfare of the world.
उत्तरम्
एकदा महर्षिविश्वामित्रः दशरथास्थानम् आगतवान्। यज्ञरक्षणार्थं बालकौ रामलक्ष्मणौ आत्मना सह प्रेषयितुम् अकथयत्। पुत्रवात्सल्येन दशरथः दुःखितोऽभवत्। कुलपुरोहितः वसिष्ठः विश्वामित्रस्य याचनां पूरयितुं दशरथम् उक्तवान्। लोककल्याणार्थं दशरथः रामलक्ष्मणौ प्रेषितवान्।
प्रश्न 56.
परिच्छेदमिमं पठित्वा प्रश्नानाम् उत्तराणि लिखत। (5 × 1 = 5)
सांगरे सर्वाणि तीर्थानि सन्तीति तं पवित्रं मन्यन्ते भारतीयाः। पृथिव्याः मेखाला इति कवयः समुद्रं वर्णयन्ति। अस्य जलं क्षारं भवतीति जनाः तन्न पिबन्ति। वर्षाकाले सागरस्य जले प्रबलेन वातेन तुङ्गाः तरङ्गाः उद्भवन्ति, घोरः घर्जनारवः च उत्पद्यते। सागरे बहुविधाः सत्वाः निवसन्ति मत्स्याः कूर्माः मकरा निवसन्ति। तस्य तले बहु मूल्यानि रत्नानि मौक्तिकानि च तिष्टन्ति इति कारणात् जनाः तं रत्नाकरः इति कथयन्ति। समुद्रतीरे सामान्यतः शुद्धः प्रशान्त: च पवन: वहति। अतः तत्र जनाः प्रात:काले सायं काले च विहारार्थं . सञ्चरन्ति। बालाा वालुकासु क्रीडन्ति। एवं सर्वे आनन्दमनुभवन्ति।
प्रश्नाः
1. भारतीयाः सागरं किमर्थं पवित्रं मन्यन्ते?
उत्तरम्
भारतीयाः सागरं सर्वाणि तीर्थानि सन्तीति पवित्रं मन्यन्ते।
2. वर्षाकाले सागरः कीदृशः भवति?
उत्तरम्
वर्षाकाले सागरस्य जले प्रबलेन वातेन तुङ्गाः तरङ्गाः उद्भवन्ति, घोर: घर्जनारव: च उत्पद्यते।
3. सागरे के निवसन्ति?
उत्तरम्
सागरे बहुविधाः सत्वाः मत्स्याः कूर्माः मकरा निवसन्ति
4. सागरतले कानि तिष्ठन्ति?
उत्तरम्
सागरतले बहु मूल्यानि रत्नानि मौक्तिकानि च तिष्टन्ति।
5. समुद्रतीरे जनाः कदा सञ्चरन्ति?
उत्तरम्
जनाः प्रात:काले सायं काले च विहारार्थं सञ्चरन्ति।
अथवा
पुस्तकप्रेषणार्थं पुस्तकप्रकाशनं प्रति पत्रं लिखत।
उत्तरम्
सकाशात्
रम्या हेच
10, तृतीयमुख्यमार्गः, जयनगरम्।
मैसूरु
सविधे
वेदान्तभारती
बनशङ्करी
बेंगलूरु
मान्या:
विषय: – पुस्तकप्रेषणाय आवेदनम्।
भवत्प्रकाशितस्य ‘प्रबन्धसंग्रहः’ नामकपुस्तकस्य विषये अहं ज्ञातवती। तत् पुस्तकं मया अवश्यं क्रेतव्यम्। अतः तत्पुस्तकं वि.पि.पि द्वारा शीघ्रं प्रेषयतु इति सविनयं प्रार्थये।
धन्यवादाः
स्थलम् – मैसूरु
दिनाङ्कः – 12/08/2014
भवदीया
रम्या