KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 6 प्रहेलिकाः

Students can Download Sanskrit Lesson 6 प्रहेलिकाः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 6 प्रहेलिकाः

प्रहेलिकाः Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न 1.
सा वरवर्णिनी का?
उत्तरम्
सा वरवर्णिनी गङ्गा।

a

प्रश्न 2.
आसन्दी केषां कान्ता अस्ति।
उत्तरम्
आसन्दी भूपण्डितसभ्यानां कान्ता अस्ति।

प्रश्न 3.
वृक्षस्याग्रे किं दृष्टम्?
उत्तरम्
वृक्षस्य अग्रे फलं दृष्टम्।

प्रश्न 4.
पञ्चभी किन्तु पाञ्चाली न, सा का?
उत्तरम्
पञ्चभी किन्तु पाञ्चाली न, सा लेखनी।

प्रश्न 2.
विभज्य सन्धिनाम लिखत:
1. कास्मि
2. प्रोच्यताम्
3. वृक्षस्याग्रे
4. अप्यस्ति
उत्तरम्
1. कास्मि = का + अस्मि – सवर्णदीर्घसन्धिः।
2. प्रोच्यताम् = प्र + उच्यताम् – गुणसन्धिः।
3. वृक्षस्याग्रे = वृक्षस्य + अग्रे – सवर्णदीर्घसन्धिः।
4. अप्यस्ति = अपि + अस्ति – यणसन्धिः।

प्रश्न 3.
एतेषां क्रियापदानां बहुवचनरूपं लिखत।
1. अस्मि _________ ।
2. जानाति _________ ।
3. गच्छति _________ ।
4. अस्ति _________ ।
उत्तरम्
1. अस्मि = स्मः
2. जानाति = जानन्ति
3. गच्छति = गच्छन्ति
4. अस्ति = सन्ति।

प्रश्न 4.
रिक्तस्थानानि पूरयत:
1. माताहं _________ दात्री।
2. वृक्षस्याग्रे _________ दृष्टम्।
3. _________ न च सर्पिणी।
4. अमुखः _________ वक्ता।
उत्तरम्
1. माताहं जीवनं दात्री।
2. वृक्षस्याग्रे फलं दृष्टम्।
3. द्विजिह्वा न च सर्पिणी।
4. अमुखः स्फुट वक्ता।

प्रश्न 5.
एकवचनरूपं लिखत:
उदा : – काः – का
1. वयम् – _________ ।
2. युष्माकम् – _________ ।
3. जीवनानि – _________ ।
4. ये – _________ ।
उत्तरम्
उदा : – काः – का
1. वयम् – अहम्।
2. युष्माकम् – मम
3. जीवनानि – जीवनम्
4. ये – यः

प्रश्न 6.
वाक्यं रचयत।
1. माता
2. जानाति
3. मम
उत्तरम्
1. माता = माता देवपूजां करिष्यति।
2. जानाति = छात्रः उत्तरं जानाति।
3. मम = मम नाम अश्विनः।

प्रश्न 7.
संयोजयत।
1. वरवर्णिनी – 1. लेखनी।
2. कृष्णमुखी न मार्जारी – 2. गङ्गामाता
3. साक्षरः न पण्डितः – 3. पत्रम्
उत्तरम्
1. वरवर्णिनी – 2. गङ्गामाता
2. कृष्णमुखी न मार्जारी – 1. लेखनी।
3. साक्षरः न पण्डितः – 3. पत्रम्

प्रश्न 8.
चतुर्थपदं लिखत।
1. पार्वती – ईकारान्तः । हरिप्रिया – _________ ।
2. नास्मि – सवर्णदीर्घः । कान्तेति – _________ ।
3. जिह्वा – रसना । वृक्षः – _________ ।
4. तिष्ठति – प्रथमपुरुषः । जानासि – _________ ।
उत्तरम्
1. पार्वती – ईकारान्तः । हरिप्रिया – आकारान्तः ।
2. नास्मि – सवर्णदीर्घः । कान्तेति – गुणः ।
3. जिह्वा – रसना । वृक्षः – तरुः ।
4. तिष्ठति – प्रथमपुरुषः । जानासि – मध्यमपुरुषः ।

प्रश्न 9.
समानार्थकपदानि लिखत।
1. माता = _________
2. मार्जारः = _________
3. पण्डितः = _________
4. समुद्रः = _________
उत्तरम्
1. माता = जननी।
2. मार्जारः = बिडालः।
3. पण्डितः = विबुधः।
4. समुद्रः = सागरः।

इतरप्रश्नाः

प्रश्न 1.
अन्यलिङ्गरूपाणि लिखत।
उत्तरम्
1. गृहस्था = गृहस्थः
2. मार्जारी = मार्जारः।
3. काः = कः
4. पण्डितः = पण्डिता।

प्रश्न 2.
इतरवचनरूपाणि लिखत।
उत्तरम्
1. पार्वती – पार्वत्यौ – पार्वत्यः।
2. वृक्षस्य – वृक्षयोः – वृक्षाणाम्।
3. पण्डितः – पण्डितौ – पण्डिताः।
4. अहं – आवाम् – वयम्।

प्रहेलिकाः Summary

संस्कृतभाषायां गद्यं पद्यमिति काव्यं द्विविधम् अस्ति। प्रेहेलिका पद्यात्मकम् अस्ति। प्रहेलिकाः छात्राणां तु ज्ञानवर्धकाः सन्ति। चम्पू-गद्यपद्यात्मकं भवति।

In Sanskrit literature Kavya (poetical works) classified into prose, poetry, and champu (a form of literature in which prose and verse alternate). Riddles are in the form of a poetic version. It improves the knowledge of the students.

प्रहेलिकाः Summary 1

सारांशः

1. शैलजा पार्वती नास्मि वैष्णवी न हरिप्रिया ।
माताहं जीवनं दात्री कास्मि सा वरवर्णिनी।

अहं पर्वतराजस्य पत्री अस्मि, किन्तु शिवस्य पत्नी न। वैष्णवी अस्मि, किन्तु लक्ष्मीः न। सर्वेभ्यः जलं ददामि अहं का?
उत्तरम् :
गङ्गानदी।

I am the daughter of the mountain (Himalaya) but I am not Parvati. My name is Vaishnavi, but I am not Lakshmi? I will give water to all. Then who am I?
Answer:
River Ganga

प्रहेलिकाः Summary 2

2. चतुष्पदा न गौरास्मि गृहस्था नास्मि गहिनी।
भूपपण्डितसभ्यानां काहं कान्तेति प्रोच्यताम् ।।

मम चत्वारः पादाः सन्ति, किन्तु नाहं धेनुः। सदा गृहे एव निवसामि, किन्तु नाहं गृहिणी। भूपतिः, पण्डितः, गण्याः इत्यादीनाम् सर्वेषां प्रिया अस्मि, तर्हि अहं का?
उत्तरम्:
आसन्दी

I have four legs but not a cow. I am always staying in the house but not a housewife. King and Wisemen were fond of me (tender). Then who am I?
Answer:
Chair

प्रहेलिकाः Summary 3

3. वृक्षस्याग्रे फलं दृष्टं फलाग्रे वृक्ष एव च।
अकारादि सकारान्तं यो जानानि स पण्डितः ॥

अहं कश्चित् वृक्षः अस्मि। ममाग्रे फलं वर्तते। फलस्य अग्रे वृक्षः एव वर्तते। मम आदौ अकारः अन्ते सकारश्च श्रूयते। कोऽहं?
उत्तरम्:
अनानासः (फलम्).

I am a tree. Fruit is on my head. A tree is on the fruit too. My name starts with the letter ‘A’ and ends with the letter ‘S’. Then who am I? Ans. Ananas fruit.

प्रहेलिकाः Summary 4

4. कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी।
पञ्चभी न पाञ्चाली यो जानाति स पण्डितः।

मम मुखं कृष्णवर्णयुक्तमस्ति, किन्तु नाहं मार्जारी। जिह्वाद्वयम् अस्ति, किन्तु नाहं सर्पिणी। पञ्चभी अस्मि, किन्तु नाहं द्रौपदी। तर्हि अहं का?
उत्तरम्:
लेखनी।

My face is black, but I am not the cat. I have two tongues but not the snake. I have five partners but not Draupadi, Who am I?
Answer:
Pen

प्रहेलिकाः Summary 5

5. अपदो दूरगामी च साक्षरो न च पण्डितः ।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ।।

मम पादौ न स्तः, किन्तु बहुदूरं गच्छामि। नाहं ज्ञानी, किन्तु अक्षराणि पठामि। मम मुखमेव नास्ति, परन्तु स्पष्टं कथयामि। तर्हि कोऽहम् ?
उत्तरम्:
पत्रम्

I can able to go far without legs. I can read without studying in school. I can able to talk without a face. Then tell me who am I?
Answer:
Paper

प्रहेलिकाः Summary 6

6. न तस्यादिर्नतस्यान्तः मध्ये यस्तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥

आरम्भे ‘न’ इति, मध्ये ‘य’ इति, अन्ते ‘न’ इति श्रूयते। भवतः अपि मम अपि तदस्ति। तत् किम्?
उत्तरम्:
नयनम्

The letter ‘N’ is in the beginning, ‘ya’ is in the middle and again ‘N’ is at the end. You also have it and I too. Then what is that?
Answer:
Nayana (Eye)

प्रहेलिकाः Summary 7

a