KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 10 गुर्वष्टकम्

Students can Download Sanskrit Lesson 10 गुर्वष्टकम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 10 गुर्वष्टकम्

गुर्वष्टकम् Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
समानार्थकपदानि लिखत।
1. शरीरम्
2. धनम्
3. मनः
4. पादः
5. कलत्रम्
6. यशः
उत्तरम्
1. शरीरम् = देहः
2. धनम् = वित्तम्।
3. मनः = चित्तम्
4. पादः = चरणम्।
5. कलत्रम् = जाया
6. यशः = कीर्तिः

प्रश्न 2.
अन्यलिङ्गरूपं लिखत।
1. पुत्रः
2. धन्यः
3. अन्यः
4. मान्यः
उत्तरम्
1. पुत्रः = पुत्री
2. धन्यः = धन्या
3. अन्यः = अन्या
4. मान्यः = मान्या

a

प्रश्न 3.
लिङ्ग-विभक्ति-वचनानि लिखत।
1. विद्या
2. स्वदेशेषु
3. भूपालवृन्दैः
4. प्रतापात्
5. योगे
उत्तरम्
1. विद्या = स्त्रीलिङ्गः – प्रथमा – एकवचनम्।
2. स्वदेशेषु = पुल्लिङ्गः – सप्तमी – बहुवचनम्।
3. भूपालवृन्दैः = पुल्लिंङ्गः – तृतीया – बहुवचनम्।
4. प्रतापात् = पुल्लिङ्गः – पञ्चमी – एकवचनम्।
5. योगे = पुल्लिङ्गः – सप्तमी – एकवचनम्।

प्रश्न 4.
संयोजयत।

1. मुखे 1. मेरुतुल्यम्
2. शरीरम् 2. शास्त्रविद्या
3. स्वदेशेषु 3. सुरूपम्
4. करं 4. धन्यः
5. धनम् 5. जगद्वस्तु

उत्तरम्

1. मुखे 2. शास्त्रविद्या
2. शरीरम् 3. सुरूपम्
3. स्वदेशेषु 4. धन्यः
4. करं 5. जगद्वस्तु
5. धनम् 1. मेरुतुल्यम्

प्रश्न 5.
पञ्चषैः वाक्यैः उत्तरं मातृभाषया लिखत।
उत्तरम्
गुरोः महिमा-

  1. सुरूपं शरीरम्, पत्नीम्, कीर्तिम्, प्रभूतं धनम् इत्यादिकम् अस्ति चेदपि मनः सद्गुरुचरणकमले आसक्तं न भवति चेत् सर्वेऽपि व्यर्थः।
  2. जाया, ऐश्वर्यम्, पुत्रपौत्रादि सर्वम्, गृहम्, बन्धुमित्रादयः इत्यदिकं सर्वं प्राप्तम्। तथापि गुरुचरणे मानसं यदि अनासक्तं तर्हि, सर्वेऽपि व्यर्थः।
  3. वेदभागः तथा शास्त्राणि स्ववदने सन्ति। काव्यरचनादिकं करोति। तथापि गुरुचरणे मानसं यदि अनासक्तं तर्हि सर्वेऽपि व्यर्थः।
  4. देशान्तरेषु मान्यः स्वदेशेषुधन्यः सदाचारवृत्तेषु अन्यः कोऽपि नास्ति इति यः चिन्तयति, तस्य मानसं यदि गुरुचरणे अनासक्तं तर्हि सर्वेऽपि व्यर्थः।
  5. पण्डितस्य चरणकमलं राजाधिराजप्रभृतिभिः सर्वदा अर्चितम्। तथापि गुरुचरणे मानसं यदि अनासक्तं तर्हि सर्वेऽपि व्यर्थः।

इतरप्रश्नाः

प्रश्न 1.
जगद्गुरु शङ्कराचार्यस्य देशकालादिविषये लिखत।
उत्तरम्
जगद्गुरुः श्रीशङ्कराचार्यः अस्य पद्यस्य रचयिता अस्ति। अस्य महाभागस्य जननं केरलराज्यस्य कालटि नाम ग्रामे क्रि.श. 788 तमे वर्षे अभवत्। अस्य कृतयः प्रस्थानत्रयस्यभाष्यम् विवेकचूड़ामणिः, सौन्दर्यलहरी, शिवानन्दलहरी, भजगोविन्दस्तोत्रम् इत्यादयः।

गुर्वष्टकम् Introduction

जगद्गुरुः श्रीशङ्कराचार्यः अस्य पद्यस्य रचयिता अस्ति। अस्य महाभागस्य जननं केरलराज्यस्य कालटि नाम ग्रामे क्रि.श. 788 तमे वर्षे अभवत्। अस्य कृतयः प्रस्थानत्रयस्यभाष्यम् विवेकचूड़ामणिः, सौन्दर्यलहरी, शिवानन्दलहरी, भजगोविन्दस्तोत्रम् इत्यादयः।

Jagadguru Sri Shankaracharya composed this poem. His Holiness Jagadguru Shankaracharya was born in Kaalati village of Kerala state in the year 788. His works are- प्रस्थानत्रयस्य भाष्यम् विवेकचूड़ामणिः, सौन्दर्यलहरी, शिवानन्दलहरी, भजगोविन्दस्तोत्रम् etc.

गुर्वष्टकम् Introduction

गुर्वष्टकम् Summary in Sanskrit

सारांशः
1. शरीरं सरूपं तथा वा कलत्रम्
यशश्चारु चित्रं धनं. मेरुतुल्यम्
मनश्चेन्न लग्नं गुरोरङ्ग्रिपने
ततः किं ततः किं ततः किं ततः किम्॥

सुरूपं शरीरम्, पत्नीम्, कीर्तिम्, प्रभूतं धनम् इत्यादिकम् अस्ति चेदपि मनः सद्गुरुचरणकमले आसक्तं न भवति चेत् सर्वेऽपि व्यर्थः।

2. कलत्रं धनं पुत्रपौत्रादि सर्वम्
गृहं बान्धवाः सर्वमेतद्धि जातम्।
मनश्चेन्न लग्नं गुरोरङ्ग्रिपने
ततः किं ततः किं ततः किं ततः किम्॥

जाया, ऐश्वर्यम्, पुत्रपौत्रादि सर्वम्, गृहम्, बन्धुमित्रादयः इत्यदिकं सर्वं प्राप्तम्। तथापि गुरुचरणे मानसं यदि अनासक्तं तर्हि, सर्वेऽपि व्यर्थः।

3. षड्ङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति।
मनश्चेन्न लग्नं गरोरञिपग्रे
ततः किं ततः किं ततः किं ततः किम्॥

वेदभागः तथा शास्त्राणि स्ववदने सन्ति। काव्यरचनादिकं करोति। तथापि गुरुचरणे मानसं यदि अनासक्तं तर्हि सर्वेऽपि व्यर्थः।

4. विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः।
मनश्चेन्न लग्नं गुरोरङ्ग्रिपने
ततः किं ततः किं ततः किं ततः किम्॥

देशान्तरेषु मान्यः स्वदेशेषुधन्यः सदाचारवृत्तेषु अन्यः कोऽपि नास्ति इति यः चिन्तयति, तस्य मानसं यदि गुरुचरणे अनासक्तं तर्हि सर्वेऽपि व्यर्थः।

5. क्षमामण्डले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम्।
मनश्चेन्न लग्नं गुरोरञ्जिपने।
ततः किं ततः किं ततः किं ततः किम्॥

पण्डितस्य चरणकमलं राजाधिराजप्रभृतिभिः सर्वदा अर्चितम्। तथापि गुरुचरणे मानसं यदि अनासक्तं तर्हि सर्वेऽपि व्यर्थः।

6. यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्व करे यत्प्रसादात्।
मनश्चेन्न लग्नं गुरोरङ्ग्रिपये
ततः किं ततः किं ततः किं ततः किम्॥

दानधर्मादिप्रभावात् मम कीर्तिः दिक्षु गतम्। गुरोः प्रभावात् समस्तं वस्तु स्वहस्तगतं अपि मानसं गुरोः चरणकमले न लग्नं चेत् सर्वेऽपि व्यर्थः।

7. न भोगे न योगे न वा वाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्ये
ततः किं ततः किं ततः किं ततः किम्।।

मनः भोगे नास्ति। योगे अपि नास्ति। श्रेष्ठतुरगादि व्यवहारादिषु नास्ति। जायामुखान्वेषणे आसक्तिः नास्ति। ऐश्वर्यादिषु नास्ति। अथापि मानसं गुरुचरणे न लग्नं चेत् सर्वेऽपि व्यर्थः।

8. अरण्ये नवा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्ये
मनश्चेन्न लग्नं गुरोरङ्घिपग्रे
ततः किं ततः किं ततः किं ततः किम्॥

मम मनः अरण्ये, स्वस्य गृहे, देहे, कर्मसु नास्ति। तथापि मनः गुरोः चरणे न लग्नं भवति चेत् सर्वेऽपि व्यर्थः।

9. गुरोरष्टकं यः पठेत्पुण्यदेही
यतिभूपतिब्रह्मचारी च गेही।
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञम्
गुरोरुक्तवाक्ये मनो यस्य लग्नम्॥

यः यतिः, भूपतिः, पटुः च गृहस्थः गुर्वष्टकं श्रद्धया पठति, सः सुखं च परब्रह्मपदं प्राप्नोति।

गुर्वष्टकम् Summary in English

1. Charming body, wife, fame, lot of money – these things are obtained by a person in his life. Even though his mind does not take shelter in the lotus feet of sadguru, then his life is waste.

2. Even though having wife, wealth, children, home, and relatives, but one’s mind does not take shelter in the lotus feet of Sadguru, then his wife is waste.

3. Expert in all the Vedas and shastras, he is the master of writing poems. Though one’s mind does not take refuge in the lotus feet of a guru, then his life is waste.

4. Honorable both in exile and at home, but diligent in etiquette, the mind is in vain, all that is in vain.

5. All the kings were serving the feet of the scholars. But that scholar’s mind does not take shelter in the lotus feet of a guru, then his life is waste.

6. My fame spread in all directions by doing charity. By Guru’s grace, I have all the things. But my mind does not take shelter in the lotus feet of Guru, then everything is a waste.

7. Mind does not wish to have the glory of life, not towards yoga, wealth, wife-son, etc. Even though the mind does not take shelter at the lotus feet of Guru then everything is waste.

8. My mind does not towards worldly pleasure, such as home, forest, daily works, enjoyment. But the mind does not take shelter at the lotus feet of Guru. Then everything is a waste.

9. One who chant (monk, king, brahmachari, grihastha) this gurustotra every day with devotion, will get happiness and moksha (salvation).

गुर्वष्टकम् Summary in Kannada

गुर्वष्टकम् Summary in Kannada 1

गुर्वष्टकम् Summary in Kannada 2

a