KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 11 दुराशाफलम्

Students can Download Sanskrit Lesson 11 दुराशाफलम् Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 11 दुराशाफलम्

दुराशाफलम् Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न i.
पाटलीपुत्रनगरे कः आसीत्?
उत्तरम्
पाटलीपुत्रनगरे मणिभद्रः नाम वणिक् आसीत्।

a

प्रश्न ii.
मणिभद्रः किमर्थं खिन्नः अभवत्?
उत्तरम्
दारिद्र्यकारणात् सः खिन्नः अभवत्।

प्रश्न iii.
मणिभद्रः स्वप्ने कम् अपश्यत्?
उत्तरम्
मणिभद्रः स्वप्ने क्षपणकं अपश्यत्।

प्रश्न iv.
मणिभद्रः क्षपणकं किम् अकरोत्?
उत्तरम्
मणिभद्रः क्षपणकं दण्डेन शिरसि अताडयत्।

प्रश्न 2.
कोष्टकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत।
i. _________ मणिभद्रः अतीव निर्धनः अभवत्। (विधिवशात्, विधिवशम्)
ii. ‘पद्यनिधिः’ इति _________ नाम। (नापितस्य, निधेः)
iii. नापितः _________ काले क्षपणकविहारम् अगच्छत्। (रात्रि, प्रातः)
उत्तरम्
i. विधिवशात् मणिभद्रः अतीव निर्धनः अभवत्।
ii. ‘पद्यनिधिः’ इति निधेः नाम।
iii. नापितः प्रातः काले क्षपणकविहारम् अगच्छत्।

प्रश्न 3.
संयोज्य सन्धिनाम लिखत:
1. कुत्र + अपि = _________
2. तथा + एव = _________
3. स्वप्न + उक्तम् = _________
उत्तरम्
1. कुत्र + अपि = कुत्रापि → सवर्णदीर्घसन्धिः।
2. तथा + एव = तथैव → वृद्धिसन्धिः
3. स्वप्न + उक्तम् = स्वप्नोक्तम् → गुणसन्धिः

प्रश्न 4.
समानार्थकपदानि लिखत।
1. खिन्नः
2. कनकम्
3. शिरः
4. गृहम्
उत्तरम्
1. खिन्नः = दुःखितः
2. कनकम् = सुवर्णम्।
3. शिरः = मस्तकम्
4. गृहम् = सदनम्।

प्रश्न 5.
लकार-पुरुष-वचनानि लिखत।
1. करोमि
2. भविष्यामि
3. ताडयतु
उत्तरम्
1. करोमि = लट्लकारः – उत्तमपुरुषः – एकवचनम्।
2. भविष्यामि = लुट्लकारः – उत्तमपुरुषः – एकवचनम्।
3. ताडयतु = लोट्लकार – प्रथमपुरुषः – एकवचनम्।

प्रश्न 6.
घटनानुक्रमेण लिखत।
1. राजभटाः नापितं न्यायालयं नीतवन्तः।
2. नापितः क्षपणकविहारम् अगच्छत्।
3. मणिभद्रः स्वप्नं दृष्टवान्।
4. नापितः क्षपणकानां शिरसि दण्डेन अताडयत्।
5. क्षपणकः मभिभद्रस्य गृहम् आगतवान्।
6. पाटलीपुत्रनगरे मणिभद्रनामकः वणिक् आसीत्।
उत्तरम्
6. पाटलीपुत्रनगरे मणिभद्रनामकः वणिक् आसीत्।
3. मणिभद्रः स्वप्नं दृष्टवान्।
5. क्षपणकः मभिभद्रस्य गृहम् आगतवान्।
2. नापितः क्षपणकविहारम् अगच्छत्।
4. नापितः क्षपणकानां शिरसि दण्डेन अताडयत्।
1. राजभटाः नापितं न्यायालयं नीतवन्तः।

प्रश्न 7.
यथानिर्देशमुत्तरं लिखत।

प्रश्न 1.
अहं भवतः पूर्वजैः सम्पादितः निधिः अस्मि।
कः पाठः? कः अवदत्? कम् अवदत्?
उत्तरम्
दुराशाफलम् इति पाठः। क्षपणकः (पदनिधिः) अवदत्। मणिभद्रम् अवदत्।

प्रश्न 2.
भवन्तः मध्याह्न भोजनार्थम् आगच्छन्तु।
कः पाठः? कः अवदत्? कान् अवदत्?
उत्तरम्
दुराशाफलम् इति पाठः। नापितः अवदत्। क्षपणकान् अवदत्।

प्रश्न 3.
किमर्थं भवान् क्षपणकान् ताडितवान्?
कः पाठः? कः अवदत्? कम् अवदत्?
उत्तरम्
दुराशाफलम् इति पाठः। न्यायाधीशः अवदत्। नापितं अवदत्।

प्रश्न 8.
विरुद्धार्थकपदं लिखत।
1. प्रातः
2. सन्तुष्टः
3. अन्तः
उत्तरम्
1. प्रातः × सायम्
2. सन्तुष्टः × असन्तुष्टः
3. अन्तः × बहिः

प्रश्न 9.
पञ्चषैः वाक्यैः मातृभाषया उत्तरं लिखत।

प्रश्न 1.
मणिभद्रः कथं सुवर्णं प्राप्तवान्?
उत्तरम्
पूर्वं पाटलीपुत्रे मणिभद्रनामकः वणिक् आसीत्। विधिवशात् सः निर्धनो भूत्वा प्राणत्यागं कर्तुं निश्चितवान्। तस्मिन् दिने तस्य स्वप्ने कश्चन क्षपणकः आगत्य एवं उक्तवान् – ‘अहं भवतः पूर्वजैः सम्पादितः निधिः अस्मि। मम नाम पद्मनिधिः इति। श्वः भवतः गृहम् आगमिष्यामि। भवान् दण्डेन मां ताडयतु। अहं कनकमयः भविष्यामि’ तदा मां स्वीकुरु इति अवदत्।

प्रश्न 2.
राजभटाः नापितं किमर्थं न्यायालयं नीतवान्:?
उत्तरम्
स्वप्नोक्तरीत्या मणिभद्रः कृत्वा, सर्वं कनकं गृहस्य अन्तः नीतवान्। अपरः कश्चित् नापितः प्रवृत्तं सर्वमपि दृष्टवान्। अतः मणिभद्रः तं किञ्चित् धनं दत्वा – ‘यत्र कुत्रापि मा वद’ इति अवदत्। परन्तु नापितः क्षपणक विहारं गत्वा, सर्वान् मध्याह्नभोजनार्थं आह्वयत्। सर्वे नापितस्य गृहं गतवन्तः। सः द्वार पिधाय दण्डेन तेषां शिरसि अताडयत्। कोलाहलं श्रुत्वा राजभटाः आगत्य नापितं न्यायालयं नीतवन्तः। न्यायाधीशः दुराशापीडितं तं नापितं शूलम् आरोपितवान्।

इतर प्रश्नाः

प्रश्न 1.
अन्यलिङ्गरूपं लिखत।
1. सन्तुष्टः
2. खिन्नः
3. दृष्टवान्
4. तस्य
उत्तरम्
1. सन्तुष्टः – सन्तुष्टा
2. खिन्नः – खिन्ना
3. दृष्टवान् – दृष्टवती
4. तस्य – तस्याः

प्रश्न 2.
पञ्चतन्त्राणि कानि लिखत?
उत्तरम्
मित्रभेदः, मित्रसंप्राप्तिः, काकोलूकीयम्, लब्धप्रणाशः, अपरीक्षित कारकम् – एतानि पञ्चतन्त्राणि।

दुराशाफलम् Introduction

अयं पाठः विष्णुशर्मणः पञ्चतन्त्रात् उद्धृता। पञ्चतन्त्रस्य कथाः नीतिं बोधयन्ति। विष्णुशर्मा महिलारोप्यः-नगरस्य अधिपतेः अमरशक्तेः आस्थाने आसीत्। अस्मिन् ग्रन्थे मित्रभेदः, मित्रसम्प्राप्तिः, काकोलुकीयम्, लब्धप्रणाशः, अपरीक्षितकारकम् इति पञ्चतन्त्राणि सन्ति। विष्णुशर्मणः कालः प्रायः क्रि.पू. द्वितीयशतकम् इति पण्डिताः भावयन्ति।

दुराशाफलम् Introduction

दुराशाफलम् Summary in Sanskrit

सारांशः
पूर्वं पाटलीपुत्रे मणिभद्रनामकः वणिक् आसीत्। विधिवशात् सः निर्धनो भूत्वा प्राणत्यागं कर्तुं निश्चितवान्। तस्मिन् दिने तस्य स्वप्ने कश्चन क्षपणकः आगत्य एवं उक्तवान् – ‘अहं भवतः पूर्वजैः सम्पादितः निधिः अस्मि। मम नाम पद्मनिधिः इति। श्वः भवतः गृहम् आगमिष्यामि। भवान् दण्डेन मां ताडयतु। अहं कनकमयः भविष्यामि’ तदा मां स्वीकुरु इति अवदत्।

स्वप्नोक्तरीत्या मणिभद्रः कृत्वा, सर्वं कनकं गृहस्य अन्तः नीतवान्। अपरः कश्चित् नापितः प्रवृत्तं सर्वमपि दृष्टवान्। अतः मणिभद्रः तं किञ्चित् धनं दत्वा – ‘यत्र कुत्रापि मा वद’ इति अवदत्। परन्तु नापितः क्षपणक विहारं गत्वा, सर्वान् मध्याह्नभोजनार्थं आह्वयत्। सर्वे नापितस्य गृहं गतवन्तः। सः द्वार पिधाय दण्डेन तेषां शिरसि अताडयत्। कोलाहलं श्रुत्वा राजभटाः आगत्य नापितं न्यायालयं नीतवन्तः। न्यायाधीशः दुराशापीडितं तं नापितं शूलम् आरोपितवान्।

दुराशाफलम् Summary in English

There lived a merchant by the name of Manibhadra in Pataliputra. Unfortunately day by day he became poor, so he did not wish to live any longer. He decided to live up to his life. On that night in his dream, a monk appeared and said like this — “My name is Padmanidhi. I am the wealth which was earned by your forefathers i.e. ancestors. So, tomorrow I will come to your house, then you should beat me with a wooden piece. So I will become gold.”

The next day Manibhadra saw a monk in front of his house. He took a stick in his hand, dealt severe blows on the head of the monk. Quickly monk changed into gold. At the same time, a barber saw all these things. So Manibhadra gave him some money and told him that – you should not tell anybody about this.

But the barber without knowing the real fact went to the Vihara and invited all the monks to his house. Then he closed the door and started to beat everyone. Having heard the noise, the policemen came and took the barber to the court. There the judge ordered to hang the barber because of his greediness.
Moral: “Avarice to possess more, endangers the present possession.”

दुराशाफलम् Summary in Kannada

दुराशाफलम् Summary in Kannada

a