KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 14 समासः

Students can Download Sanskrit Lesson 14 समासः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 14 समासः

समासः Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
संस्कृतभाषया उत्तरं लिखत।

प्रश्न i.
समासः कः?
उत्तरम्
अर्थ अनुसृत्य पदद्वयस्य अथवा अनेकेषां पदानां संक्षेपेण कथनं समासः।

a

प्रश्न ii.
समासभेदान् लिखत।
उत्तरम्
समासे चत्वारः भेदाः सन्ति। ते-
1. तत्पुरुष समासः।
2. बहुब्रीहि समासः।
3. द्वन्द्वसमासः।
4. अव्ययीभावसमासः।

प्रश्न iii.
समस्तपदं नाम किम्?
उत्तरम्
अर्थवशात् एकीभूतं पदं समस्तपदम्।

प्रश्न iv.
विग्रहवाक्यं नाम किम्?
उत्तरम्
समस्तस्य पदस्य विवरणं येन वाक्येन क्रियते तत् वाक्यं विग्रहवाक्यम्।

प्रश्न 2.
विग्रहवाक्यं विलिख्य समासनाम लिखत।
1. ब्रह्माच्युतशङ्कराः
2. भीमार्जुनौ
3. वसिष्ठविश्वामित्रौ
4. रामलक्ष्मणौ
उत्तरम्
1. ब्रह्माच्युतशङ्कराः = ब्रह्मा च अच्युतः च शङ्करः च = इतरेतरद्वन्द्व समासः।
2. भीमार्जुनौ = भीमः च अर्जुनः च = इतरेतरद्वन्द्व समासः।
3. वसिष्ठविश्वामित्रौ = वसिष्ठः च विश्वामित्रः = इतरेतरद्वन्द्व समासः।
4. रामलक्ष्मणौ = रामः च लक्ष्मणः च = इतरेतरद्वन्द्व समासः।

समासः Introduction

अर्थम् अनुसृत्य पदद्वयस्य अथवा अनेकेषां पदानां संक्षेपेण कथनं समासः। समास इति पदस्य ‘संक्षेपः’ इत्यर्थः। एवं अर्थवशात् एकीभूतं पदं समस्तं पदम्। यथाराज्ञः पुत्रः इति पदद्वयस्य समासे ‘राजपुत्रः’ इति समस्तं पदम्। समस्तस्य पदस्य विवरणं येन वाक्येन क्रियते तत् वाक्यं विग्रहवाक्यम्। यथा-कर्मकुशलः इति समस्तपदम्। तस्य ‘कर्मणि कुशलः’ इति विग्रहवाक्यम्।

Compound words are formed by joining together two or more words so as to express various relations briefly. A brief form of the words is called Samasa.

Thus the compound word is a single word that results from the meaning.
Eg: When the words ‘राज्ञः पुत्र’ are formed into a compound word.

That sentence by which a compound word is explained is called Vigrahavakya.
Eg. In the word ‘कर्मकुशलः’, ‘कर्मणि कुशलः’ is the Vigrahavakya.

समासः Introduction

समासः Summary

सारांशः

समासे चत्वारः भेदाः सन्ति।
1. तत्पुरुषसमासः (चोरात् भयम् = चोरभयम्)
2. बहुव्रीहिसमासः (पीतं अम्बरं यस्य सः = पीताम्बरः) (विष्णुः)
3. द्वन्द्व समासः (रामश्च कृष्णश्च = रामकृष्णौ)
4. अव्ययीभाव समासः (नगरस्य समीपम् = उपनगरम्)

समासः Summary 1

There are four kinds of compounds.
1. Tatapurusha samasa
2. Bahuvrhi samasa
3. Dvandva samasa
4. Avyibhava samasa

द्वन्द्व समासः
द्वन्द्व समासेसमासघटकानां सर्वेषां पदानां अर्थाः प्रधानाः भवन्ति। यदि पदद्वयं चेत् समस्तपदं द्विवचने भवति। अनेकानि पदानि सन्ति चेत् समस्त । पदं बहुवचने भवति।

द्वन्द्व समासः द्विधा
1. इतरेतरद्वन्द्व
2. समाहारद्वन्द्व

समासः Summary 2

1) इतरेतरद्वन्द्वसमासः – अत्र उत्तरापदस्य यल्लिङ्गं भवति तदेव समस्तपदस्य लिङ्गं भवति।

समासः Summary 3

उदा: रामश्च लक्ष्मणश्च = रामलक्ष्मणौ

समासः Summary 4

There are four kinds of compounds.
1. Tatapurusha samasa
2. Bahuvrhi samasa
3. Dvandva samasa
4. Avyibhava samasa

द्वन्द्व समासः
द्वन्द्व समासेसमासघटकानां सर्वेषां पदानां अर्थाः प्रधानाः भवन्ति। यदि पदद्वयं चेत् समस्तपदं द्विवचने भवति। अनेकानि पदानि सन्ति चेत् समस्त। पदं बहुवचने भवति।

द्वन्द्व समासः द्विधा
1. इतरेतरद्वन्द्व
2. समाहारद्वन्द्व

समासः Summary 5

1. इतरेतरद्वन्द्वसमासः – अत्र उत्तरापदस्य यल्लिङ्गं भवति तदेव समस्तपदस्य लिङ्गं भवति।

समासः Summary 6

उदा= रामश्च लक्ष्मणश्च = रामलक्ष्मणौ

समासः Summary 7

2. समाहार द्वन्द्व समासः
अस्मिन् समासे समूहार्थः एव प्रधानः भवति। विग्रहवाक्ये तु समाहार इति प्रयुज्यते। सामान्यतः अत्र समस्त पदं नित्यं नपुंसकलिङ्गे भवति।

समासः Summary 8

उदा – पाणी य पादौ च एतेषां समाहारः = पाणिपादम्
घटश्च एतयोः समाहारः = घटपटम्।।

a