KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 19 प्रबन्धः

Students can Download Sanskrit Lesson 19 प्रबन्धः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 19 प्रबन्धः

प्रबन्धः Questions and Answers, Summary, Notes

प्रकृष्टो बन्धः प्रबन्धः इत्युच्यते। निबन्धः इति अस्य नामान्तरम्। नातिविस्तृतः नातिसंक्षिप्तरूपो प्रबन्धः लघुप्रबन्धः इति कथ्यते। प्रबन्धे सरलानि वाक्यानि अपेक्षितानि। मुख्यतया प्रबन्धाः वर्णनात्मकाः, विचारात्मकाः, आख्यानात्मकाः, व्याख्यानात्मकाः चेति चतुर्धा विभक्ताः। आभाणकादिभिः प्रबन्धाः आकर्षकाः भवन्ति। एतान् सर्वान् अंशान् मनसि निधाय छात्रैः प्रबन्धाः रचनीयाः।

प्रबन्धे प्रस्तावना, विषयनिरूपणम्, उपसंहारश्चेति निरूपणक्रमः अपेक्षितः। प्रस्तावनायां प्रबन्धविषयस्य उपक्रमः, विषयनिरूपणभागे विषयस्य विस्तारः, उपसंहारभागे प्रबन्धविषयस्य सारांशः च भवेत्। प्रबन्धे वाक्यानां परस्परसम्बन्धः आवश्यकः। उदाहरणार्थम् अत्र केचन प्रबन्धाः प्रदत्ताः।

An essay is a piece of prose writing that gives a complete and clean picture of a particular subject. It will be divided into paragraphs. In each paragraph a particular aspect of the subject is dealt with. An essay include with an introduction, presentation of the subject and the conclusion.

a

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 19 प्रबन्धः

1. देशभक्तिः
बाल्ये एव देशभक्तिविषये आसक्तिः भवेत्। वयं ‘मातृदेवो भव’ इति उपनिषद्वाक्यं स्मरन्तः गातरं प्रणमामः। तद्वत् ‘भारतमाता’ अपि अस्माकं जननी अस्ति। अतः ‘भारतमातुः’ पूजा करणीया। अस्मासु देशभक्तिः सदा भवेत्। अस्माकं गृहस्य रक्षणं यथा प्रमुखं तथैव देशरक्षणम् अपि अस्माकं महत्वभूतं कार्यम्। प्रथमं देशहितचिन्तनं, ततः स्वहितचिन्तनम्। एवम् अस्माकं धारणा भवेत्।

2. ग्रन्थालयः
ग्रन्थालयः छात्राणां ज्येष्ठानां सर्वेषामपि देवमन्दिरम् इव अस्ति। पुस्तकस्य पठनेन व्यक्तित्वविकासः भवति। ग्रन्थालये विज्ञानम्, भाषा, गणितम्, इतिहासः, कथाः, नाटकम् एवं सर्वविषयकाः ग्रन्थाः भवन्ति। दिनपत्रिकाः अपि भवन्ति। दिनपत्रिकापठनेन देश-विदेशस्य वार्ताः ज्ञायन्ते। ग्रन्थालयस्य उपयोगं छात्रैः करणीयः। नगरेषु ग्रामेषु सर्वत्रापि ग्रन्थालयः भवति।

3. विद्यालयप्रवासः
अस्माकं विद्यालये प्रतिवर्ष विद्यालयप्रवासः भवत्येव। देशसञ्चारः करणीयः कोषः पठनीयः इत्युक्तिः प्रसिद्धा अस्ति। अतः प्रायः सर्वत्र. शालासु शैक्षणिक प्रवासः, क्रियते।

अहं प्रवासं बहु इच्छामि। यतः तत्र मित्रैः सह क्रीडितुं शक्यते। यदि जलं भवति, तर्हि जले अपि क्रीडामि।

ऐतिहासिक स्थलं, जलबन्धः, देवालयः, एवं विविधेषु प्रदेशेषु प्रवासः क्रियते। कदाचित् दिनत्रयस्य पञ्चदिनानाम् एकदिनस्य वा प्रवासः भवति। विद्यार्थिजीवने कृतस्य प्रवासस्य स्मरणं अग्रेऽपि अवश्यं भवति। अस्माकं कर्णाटकराज्ये बेलूरू हळेबीडु, मैसूरु, उडुपि, कोल्लूरु, पम्पाक्षेत्रम्, चित्रदुर्गः – एवं प्रसिद्धप्रवास स्थानानि सन्ति। मया सह मित्राणि मम गुरवः च आगच्छन्ति। गुरवः प्रवासस्य महत्त्वं कथयन्ति। ते इतिहासस्य वैशिष्ट्यं वर्णयन्ति।

4. सन्मित्रलक्षणम्
जीवने सन्मित्रं भवेत्। यः कष्टकाले उपकरोति, सदा मार्गदर्शनं यः करोति, सः एव सन्मित्रम्।

पापानिवारयति योजयते हिताय
गुह्यं निगृहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥

प्राचीनकालेऽपि मित्रत्वस्य उदाहरणं बहुधा दृश्यते। यथा कर्णदुर्योधनयोः मध्ये स्नेहः आसीत्। सुधामकृष्णयोः मध्ये सख्यम् आसीत्। रामसुग्रीवयोः मध्ये परमस्नेहः आसीत्। एवं बहुत्र गाढस्नेहः दृश्यते। स्निह्यति अस्मिन् इति स्नेहः। यं कमपि विषयं मित्रं कथयामः। यतः सः रक्षति, न प्रकटीकरोति। यदा यत्किमपि साहाय्यम् अपेक्षितं, स्नेहितः तत् झटिति करोति। शालायां मम बहूनि मित्राणि सन्ति। अहं शालासमयानन्तरमपि मित्रैः सह क्रीडित्वा गृहम् ‘आगमिष्यामि।

5. रामायणम्
रामायणं श्रेष्ठम् आदिकाव्यम्। अस्य रचयिता श्रीवाल्मीकिमहर्षिः। रामायणे सप्त काण्डाः सन्ति। अस्मिन् काव्ये श्रीरामकथा वर्णिता अस्ति।

श्रीरामः आदर्शपुरुषः, पितृवाक्यपरिपालकः च आसीत्। सः वनं गत्वा चतुर्दश वर्षाणि उषितवान्। राक्षसानां हननं कृतवान्च। रावणः सीतायाः अपहरणं कृतवान्। आञ्जनेयः सीतायाः अन्वेषणं कर्तुं समुद्रस्य उल्लङ्घनं कृतवान्। श्रीरामरावणयोः मध्ये घोरयुद्धं जातम्। रामेण रावणः हतः। एवं दुष्टानां दण्डनं शिष्टानां रक्षणं च श्रीरामस्य जीवनलक्ष्यम् आसीत्।

श्रीरामः त्यागमयः आसीत्। प्राप्तस्य राज्यस्य त्यागं कृत्वा सः वनं गतवान्। प्रजासु सन्देहः न भवेत् इति पत्नी सीतादेवीं वनं प्रति प्रेषितवान्। एवं श्रीरामस्य आदर्शगुणाः सर्वैः अनुकरणयोग्याः सन्ति।

a