KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 4 नीतिबोधः

Students can Download Sanskrit Lesson 4 नीतिबोधः Questions and Answers, Summary, Notes Pdf, Activity, KSEEB Solutions for Class 8 Sanskrit helps you to revise the complete Karnataka State Board Syllabus and score more marks in your examinations.

Karnataka State Syllabus Class 8 Sanskrit नंदिनी Chapter 4 नीतिबोधः

नीतिबोधः Questions and Answers, Summary, Notes

अभ्यासः

प्रश्न 1.
एकवाक्येन उत्तरं लिखत।

प्रश्न i.
पिककाकयोः भेदः कदा ज्ञायते?
उत्तर:
पिककाकयोः भेदः वसन्तकाले ज्ञायते।

a

प्रश्न ii.
अपमानं कः न प्रकाशयेत्?
उत्तर:
अपमानं मतिमान् न प्रकाशयेत्।

प्रश्न iii.
नरस्य आभरणं किम्?
उत्तर:
रूपं नरस्य आभरणम्।

प्रश्न 2.
लिङ्ग-विभक्ति-वचनानि लिखत।
1. नाशम्
2. विनोदेन
3. निद्रया
4. भक्ताय
उत्तर:
1. नाशम् → पुंलिङ्गः – द्वितीया – एकवचनम्
2. विनोदेन → पुंलिङ्गः – तृतीया – एकवचनम्
3. निद्रया → स्त्रीलिङ्गः – तृतीया – एकवचनम्
4. भक्ताय → पुंलिङ्गः – चतुर्थी – एकवचनम्

प्रश्न 3.
रेखाङ्कितपदान्तं प्रश्ननिर्माणं कुरुत।

प्रश्न i.
पिककाकयोः वर्णः कृष्णः अस्ति।
उत्तर:
कयोः वर्णः कृष्णः अस्ति?

प्रश्न ii.
काव्यशास्त्रविनोदेन धीमतां कालः गच्छति।
उत्तर:
काव्यशास्त्रविनोदेन केषां कालः गच्छति?

प्रश्न iii.
रूपस्य आभरणं गुणः।
उत्तर:
कस्य आभरणं गुण?

प्रश्न 4.
विरुद्धार्थकपदानि लिखत।
1. अपमानः
2. मित्रम्
3. कृष्णः
उत्तर:
1. अपमानः × सम्मानः
2. मित्रम् × शत्रुः
3. कृष्णः × शुक्लः

प्रश्न 5.
पर्यायपदानि लिखत।
1. काकः
2. मतिः
3. मित्रम्
4. नरः
उत्तर:
1. काकः = वायसः
2. मतिः = बुद्धिः।
3. मित्रम् = सखा।
4. नरः = मनुष्यः

प्रश्न 6.
संयोजयत।
KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 4 नीतिबोधः Q6
उत्तर:
अ – आ
1. गृहे – 1. दुश्चरितानि न प्रकाशनीयानि
2. विनोदेन – 4. धीमतां कालः गच्छति।
3. कलहेन – 3. मूर्खाणां कालः गच्छति
4. क्षमा – 2. ज्ञानस्याभरणम्

प्रश्न 7.
चतुर्थं पदं लिखत।
1. गच्छति – आगच्छति । नयति – __________।
2. काकः – प्रथमाविभक्तिः । गृहे – __________।
3. कलहेन – तृतीयाविभक्तिः । वेदात् – __________।
4. मानम् – अपमानम् । अस्ति – __________।
उत्तर:
1. गच्छति – आगच्छति । नयति – आनयति।
2. काकः – प्रथमाविभक्तिः । गृहे – सप्तमीविभक्तिः।
3. कलहेन – तृतीयाविभक्तिः । वेदात् – पञ्चमीविभक्तिः।
4. मानम् – अपमानम् । अस्ति – नास्ति।

प्रश्न 8.
समूहेतरपदं चिनुत।
1. दरिद्राय, निद्रया, रामाय, श्रोत्रियाय।
2. काकः, पिकः, गृहे, कृष्णः।
3. मतिमान्, अर्थनाशम्, मनस्तापम्, अपमानम्।
उत्तर:
1. दरिद्राय, निद्रया, रामाय, श्रोत्रियाय। (निद्रया)
2. काकः, पिकः, गृहे, कृष्णः। (गृहे)
3. मतिमान्, अर्थनाशम्, मनस्तापम्, अपमानम्। (मतिमान्)

प्रश्न 9.
अन्यलिङ्गरूपं लिखत।
1. दरिद्रः
2. माता
उत्तर:
1. दरिद्रः × दरिद्रा
2. माता × पिता

प्रश्न 10.
पञ्चषैः वाक्यैः मातृभाषया उत्तरं लिखतः।
1. धीमतां मूर्खाणां च कालः कथं गच्छति?
उत्तर:
बुद्धिमतां समयः काव्यशास्त्राणां अध्ययनेन याति। परन्तु मूढ़ानां समयः दुष्कार्येण, निद्रया, कलहेन गच्छति।

इतरप्रश्नाः
1. मातृभाषया उत्तरं लिखत:
प्रश्न i.
इहलोके परस्य च परं किम्?
उत्तर:
बुद्धिमतां समयः काव्यशास्त्राणां अध्ययनेन याति। परन्तु मूढ़ानां समयः दुष्कार्येण, निद्रया, कलहेन गच्छति।

प्रश्न ii.
पिककाकयोः भेदः कथं जायते?
उत्तर:
पिककाकयोः वर्णः समानः। किन्तु स्वरे भेदः वर्तते। अयं च स्वरभेदः वसन्तकाले स्फुटं ज्ञायते। काकः सर्वदा कर्कशं रटति। कोकिलः मधुरं कूजति।

प्रश्न iii.
मतिमान् कान् न प्रकाशयेत्?
उत्तर:
बुद्धिमान् पुरुषः- धनस्य नाशम्, मनसः चिन्ताम्, स्वगृहे-विद्यमानं दुष्कार्याणि, वञ्चनम्, अपमानम् सर्वेषां समीपे न वदेत्।

प्रश्न iv.
स्वर्गसाधनं किम् विशदयत?
उत्तर:
मनुष्यस्य आभरणं रूपम्, रूपस्य आभरणं गुणः, गुणस्य आभरणं ज्ञानं तथा ज्ञानस्य आभरणं क्षमा।

नीतिबोधः Summary

‘नीतिबोधः’ नाम शोभनं भाषितम् इत्यर्थः। अस्य सुभाषितम्, सुवचनम्, सूक्तिः चेति नामान्तराणि सन्ति। संस्कृत साहित्ये बहूनि सुभाषितानि लभ्यन्ते। हितोपदेशः, अत्रिसंहिता, सुभाषितरत्नभाण्डागारः, सुभाषितरत्नसमुच्चयः इत्यादिषु ग्रन्थेषु अनेकानि सुभाषितानि संङ्ग्रहीतानि।

The word ‘Neetibodha’ means a good saying. This is called Subhashita, Suvachana, Sookti, etc. In works like Hitopadesha, Atrisamhita, Subhashitaratna, Samuchhaya, etc. can be found a collection of the subhashitas.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 4 नीतिबोधः 1

1. काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः॥

पिककाकयोः वर्णः समानः। किन्तु स्वरे भेदः वर्तते। अयं च स्वरभेदः वसन्तकाले स्फुटं ज्ञायते। काकः सर्वदा कर्कशं रटति। कोकिलः मधुरं कूजति।

A crow and a cuckoo are same in colour. But in the spring season the cuckoo warbles sweetly. Crow warbles harshly. This is the difference between the crow and the cuckoo.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 4 नीतिबोधः 2

2. अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत्॥

बुद्धिमान् पुरुषः- धनस्य नाशम्, मनसः चिन्ताम्, स्वगृहे-विद्यमानं दुष्कार्याणि, वञ्चनम्, अपमानम् सर्वेषां समीपे न वदेत्।

A wise person should not say others about his loss of money, sorrowful thought, bad event (sin), cheating and disrespect. (of his own)

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 4 नीतिबोधः 3

3. काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा॥

बुद्धिमतां समयः काव्यशास्त्राणां अध्ययनेन याति। परन्तु मूढ़ानां समयः दुष्कार्येण, निद्रया, कलहेन गच्छति।

Time of the nobleman spent in the study of the kavyas and shastraas. But in the case of a wicked man, time (life) will leads to bad work, sleeping and strength for trouble oneself.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 4 नीतिबोधः 4

4. नरस्याभरणं रूपं रूपस्याभरणं गुणः।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा॥

मनुष्यस्य आभरणं रूपम्, रूपस्य आभरणं गुणः, गुणस्य आभरणं ज्ञानं तथा ज्ञानस्य आभरणं क्षमा।

Beauty is the jewel for a person. Good quality is the jewel for the beauty. Knowledge is an ornament for good quality and forgiveness is the jewel for the knowledge.

KSEEB Solutions for Class 8 Sanskrit नंदिनी Chapter 4 नीतिबोधः 5

a